निखिलमपि संस्कृतवाङ्मयं विशेषतश्चोपनिषत् साहित्यं व्याप्तं आध्यात्मिकया भावनया…

PYQ BPSC TRE (Classes 1-8) 2024

निखिलमपि संस्कृतवाङ्मयं विशेषतश्चोपनिषत् साहित्यं व्याप्तं आध्यात्मिकया भावनया । अध्यात्मविद्याप्रधानासु उपनिषत्सु संवादरूपेण अतिमनोहराः उपदेशाः समुल्लसन्ति। सर्वेषां संवादानां तात्पर्यविषयीभूतोऽर्थः आत्मानमधिकृत्य एव प्रस्तुतः । छान्दोग्योपनिषद् बृहदारण्यकोपनिषच्चेति उपनिषद्द्वयम् अतीवमहत्त्वपूर्णं दीर्घाकारञ्च । तत्र छान्दोग्योपनिषदि तृतीये भागे घोराङ्गिरसः नाम्नो महर्षेः श्रीकृष्णेन ब्रह्मविद्योपार्जितेति वर्णितम्। षष्ठे च भागे उद्दालकारुणेयात् तदात्मजेन श्वेतकेतु-आरुणेयेन ब्रह्मविद्या प्राप्तिविवेचनम्। एवमुपनिषदाम् अध्यात्मविद्यापरमतीवोज्ज्वलं मनस आत्मनश्च अतीव शान्तिप्रदं ब्रह्मविद्यातन्त्रम् । अस्य गद्यांशस्य उचितः शीर्षकः कः ?

  1. A.

    आध्यात्मिकी भावना

  2. B.

    पारलौकिकी भावना

  3. C.

    पुनर्जन्मवादः

  4. D.

    उपर्युक्तेषु एकस्मात् अधिकम्

  5. E.

    उपर्युक्तेषु कश्चन अपि नास्ति

Sign up free to check your answer

Sign up free

Explore the full course: Bpsc Tre 4 Middle Teacher Class 6 8 Sanskrit

Loading lesson…