निखिलमपि संस्कृतवाङ्मयं विशेषतश्चोपनिषत् साहित्यं व्याप्तं आध्यात्मिकया भावनया…
PYQ BPSC TRE (Classes 1-8) 2024
निखिलमपि संस्कृतवाङ्मयं विशेषतश्चोपनिषत् साहित्यं व्याप्तं आध्यात्मिकया भावनया । अध्यात्मविद्याप्रधानासु उपनिषत्सु संवादरूपेण अतिमनोहराः उपदेशाः समुल्लसन्ति। सर्वेषां संवादानां तात्पर्यविषयीभूतोऽर्थः आत्मानमधिकृत्य एव प्रस्तुतः । छान्दोग्योपनिषद् बृहदारण्यकोपनिषच्चेति उपनिषद्द्वयम् अतीवमहत्त्वपूर्णं दीर्घाकारञ्च । तत्र छान्दोग्योपनिषदि तृतीये भागे घोराङ्गिरसः नाम्नो महर्षेः श्रीकृष्णेन ब्रह्मविद्योपार्जितेति वर्णितम्। षष्ठे च भागे उद्दालकारुणेयात् तदात्मजेन श्वेतकेतु-आरुणेयेन ब्रह्मविद्या प्राप्तिविवेचनम्। एवमुपनिषदाम् अध्यात्मविद्यापरमतीवोज्ज्वलं मनस आत्मनश्च अतीव शान्तिप्रदं ब्रह्मविद्यातन्त्रम् । श्वेतकेतु-आरुणेयः कस्य पुत्रः अस्ति ?
- A.
वाजश्रवसः
- B.
उद्दालकस्य
- C.
ऋषभश्रृङ्गस्य
- D.
उपर्युक्तेषु एकस्मात् अधिकम्
- E.
उपर्युक्तेषु कश्चन अपि नास्ति
Sign up free to check your answer
Sign up freeExplore the full course: Bpsc Tre 4 Middle Teacher Class 6 8 Sanskrit
Loading lesson…

