स्त्रीणां कृते शिक्षाया महती आवश्यकता एतस्मात् कारणात् वर्तते यत् ता एव समये…
PYQ BPSC TRE (Classes 1-8) 2024
स्त्रीणां कृते शिक्षाया महती आवश्यकता एतस्मात् कारणात् वर्तते यत् ता एव समये प्राप्ते मातरो भवन्ति । यथा मातरो भवन्ति, तथैव सन्ततिर्भवति। यदि मातरोऽशिक्षिताः विद्याशून्याः कर्तव्यज्ञानहीनाश्च सन्ति, तर्हि पुत्राः पुत्र्यश्च तथैवाविद्याग्रस्ताः कुशलतारहिताश्च भविष्यन्ति । यदि नार्यः शिक्षिताः सन्ति, तर्हि ताः स्वपुत्राणां पालनं रक्षणं शिक्षणादिकं च सम्यक्तया करिष्यन्ति, एवं तासां सन्ततिः विद्यायुक्ता हृष्टा पुष्टा सद्गुणोपेता च भविष्यति । अतएव महानिर्वाण तन्त्रेऽप्युक्तमस्ति “कन्याऽप्येवं लालनीया शिक्षणीया प्रयत्नतः” विवाहे सञ्जाते कन्याः गृहस्थाश्रमं प्रविशन्ति । यदि पुरुषो विद्वान् स्त्री च विद्याशून्या भवति तर्हि दाम्पत्यजीवनं सुखकरं न भवति। विद्याया अभावात् स्त्री स्वकीयं कर्तव्यं न जानाति, अतएव बहवो रोगा व्याधयश्च तत्र स्थानं कुर्वन्ति । अतः स्त्रीणामपि शिक्षा पुत्राणां शिक्षावदेषा आवश्यकी वर्तते। स्त्रियो मातृशक्तेः प्रतीकभूताः सन्ति, अतस्तासां सदा सम्मानः करणीयः। यस्मिन् देशे समाजे च स्त्रीणामादरो भवति, स देशः समाजश्चोन्नतिं प्राप्नुतः । उक्तं च मनुना— “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः”।।
गद्यांशस्य उपयुक्तः शीर्षकः कोऽस्ति ?
- A.
स्त्रीशिक्षायाः आवश्यकता
- B.
पुरुषशिक्षायाः महत्त्वम्
- C.
समाजविकासः
- D.
उपर्युक्तेषु एकस्मात् अधिकम्
- E.
उपर्युक्तेषु कश्चन अपि नास्ति
Sign up free to check your answer
Sign up freeExplore the full course: Bpsc Tre 4 Middle Teacher Class 6 8 Sanskrit
Loading lesson…

