चाणक्यः प्राचीनभारतस्य निर्भीको दूरदर्शी राजनीतिज्ञः शास्त्रज्ञो विद्वान्…
PYQ BPSC TRE 2023
चाणक्यः प्राचीनभारतस्य निर्भीको दूरदर्शी राजनीतिज्ञः शास्त्रज्ञो विद्वान् आसीत्। तस्य पितृप्रदत्तं नाम विष्णुगुप्तम् आसीत्। अयमेव ‘कौटिल्यः’ इति प्रसिद्ध आसीत्। केषाञ्चिद् विदुषामिदमपि मतमस्ति यद् राजनीतिशास्त्रे कुटिलनीतेः प्रतिष्ठापनाय तस्याः स्वजीवने उपयोगाय च अयं ‘कौटिल्यः’ इत्यपि कथ्यते। चाणकनामकस्य कस्यचित् आचार्यस्य पुत्रत्वात् ‘चाणक्यः’ इति नाम्ना स प्रसिद्धो जातः। नन्दानां राज्यकालः शतवर्षाणि पर्यन्तमासीत्। तेषु अन्तिमेषु द्वादशवर्षेषु एतेन सुमाल्यादीनाम् अष्टनन्दानां संहारः कारितस्तथा च चन्द्रगुप्तमौर्यः नृपत्वेन राजसिंहासने स्थापितः। एतेन भारतीय-शासन-व्यवस्थायाः प्रामाणिक-तत्त्वानां वर्णनेन युक्तं ‘अर्थशास्त्रम्’ इति अतिमहत्त्वपूर्णो ग्रन्थो रचितः। चणकस्य पुत्रः क आसीत्?
- A.
कणादः
- B.
शौनकः
- C.
कौटिल्यः
- D.
उपर्युक्तेषु एकस्मादधिकः
- E.
उपर्युक्तेषु किञ्चन अपि नास्ति
Sign up free to check your answer
Sign up freeExplore the full course: Bpsc Tre 4 Secondary Teacher Class 9 10 Sanskrit
Loading lesson…

