प्रकृतिरस्माभिः रक्षणीया। तेन च पर्यावरणं रक्षितं भवति। प्राचीनकाले…

PYQ BPSC TRE 2023

प्रकृतिरस्माभिः रक्षणीया। तेन च पर्यावरणं रक्षितं भवति। प्राचीनकाले लोकमङ्गलाशंसिनः ऋषयो वने निवसन्ति स्म। यतो हि वने एव सुरक्षितं पर्यावरणमुपलभ्यते स्म। विविधाः विहगाः कलकूजितैस्तत्र श्रोत्ररसायनं ददति। सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायुं वितरन्ति। धर्मो रक्षति रक्षितः इत्यार्षवचनम्। पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमस्ति। ऋषयः प्रतिपादितवन्तः। तत एव वापीकूपतडागादिनिर्माणं देवायतनविश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्रोतोरूपेणाङ्गीकृतम्। ‘‘शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायुं वितरन्ति’’ इत्यत्र ‘औषधकल्पम्’ इति पदं कस्य विशेषणम्?

  1. A.

    लतानाम्

  2. B.

    वनस्पतीनाम्

  3. C.

    पृथिव्याः

  4. D.

    उपर्युक्तेषु एकस्मादधिकः

  5. E.

    उपर्युक्तेषु किञ्चन अपि नास्ति

Sign up free to check your answer

Sign up free

Explore the full course: Bpsc Tre 4 Secondary Teacher Class 9 10 Sanskrit

Loading lesson…