स्वराज्यं हि नाम राष्ट्रस्य परमोत्कर्षाधायकं तत्त्वम् । सर्वेषां स्वराष्ट्रिय…

PYQ BPSC TRE (Classes 1-8) 2024

स्वराज्यं हि नाम राष्ट्रस्य परमोत्कर्षाधायकं तत्त्वम् । सर्वेषां स्वराष्ट्रिय प्रजाजनानां सम्मत्या प्रतिनिधिविधया प्रवर्तितं यद्राज्यं तत्स्वराज्यपदेन व्यपदिश्यते । तादृशस्वराज्योपलब्ध्यर्थमेव जनैः प्रयतितव्यम् इति ऋग्वेदेऽपि समुपदिष्टम् । वेदे स्वराज्य-महिमा वर्णनार्थमेकमखिलं सूक्तमेव पठ्यते तद्धि स्वराज्यसूक्तमिति नाम्ना कथ्यते । अन्यत्रापि बहुत्र स्वराज्य गुणगरिमाऽवलोक्यते। कस्यापि राष्ट्रस्य कृते स्वराज्यसदृशमन्यत् भूतं प्रभूतं वैभवं नास्ति। एतेन ध्वन्यते प्रस्फुटं यत् प्रजातन्त्रं शासनमपि तदेवोत्कृष्टं यत्स्वराज्यसंवलितं भवेत् । एष प्रजातन्त्रप्रसङ्गः अन्यत्रापि संस्कृतसाहित्ये दरीदृश्यते । प्रायशः वर्षाणां सहस्रद्वयी व्यतीयाय यदा राजनीतिनिपुणः कौटिल्यापरनामधेयः आचार्यः चाणक्यः बभूव। तेन कूटनीतिधुरंधरेण एकायत्तं नन्दवंश प्रशासनमुदिश्य मौर्यकुलभूषणं चन्द्रगुप्तं राज्यसिंहासने प्रतिष्ठापयामास । महान् राजनीतिज्ञः कौटिल्यः चन्द्रगुप्तस्य कृते साम्राज्यधुरं निर्वोढुमर्थशास्त्रविधं लोकविश्रुतं राजनीतितन्त्रं प्रणिनाय। यत्र प्रजातन्त्रपद्धतिमेवालम्ब्य राज्यतन्त्रं सञ्चालयितव्यमिति सर्वं सुनिपुणं प्रतिपादितम् । उत्कृष्टं प्रजातन्त्रशासनमस्ति

  1. A.

    राजाश्रितम्

  2. B.

    स्वराज्यसंवलितम्

  3. C.

    अनुकम्पाश्रितम्

  4. D.

    उपर्युक्तेषु एकस्मात् अधिकम्

  5. E.

    उपर्युक्तेषु कश्चन अपि नास्ति

Sign up free to check your answer

Sign up free

Explore the full course: Bpsc Tre 4 Middle Teacher Class 6 8 Sanskrit

Loading lesson…