परेषाम् उपकरणमेव 'परोपकार' इति कथ्यते। परोपकरणं मानवोचितः सात्विकः सद्गुणः…
PYQ UPTET 2017
परेषाम् उपकरणमेव 'परोपकार' इति कथ्यते। परोपकरणं मानवोचितः सात्विकः सद्गुणः स्वीकृतः। परोपकारसद्गुणेन मानवेषु सहयोग भावना वर्धते। यदि वयं परेषां जनानां उपकारं करिष्यामः तर्हि तेऽपि अस्माकं हितं विधास्यन्ति। परस्परोपकरणेनैव अस्माकं कल्याणं भवितुं शक्यते। जनकल्याणायैव सत्पुरुषाः मनसा, वाचा, कर्मणा च परोपकाररताः दृश्यन्ते। सत्पुरुषाणां सम्पत्तयः परजीवेभ्यः एव भवन्ति। धर्मशास्त्रेषु परोपकारस्य महत्त्वं विशदरूपेण वर्णितम्। सत्परोपकारी तु स एव भवति यः स्वार्थं विहाय परेषां हितसाधने रमते। अनेकानि उदाहरणान्यपि तत्र वर्तन्ते। महर्षिः दधीचिः, रन्तिदेवं वा को न जानाति। प्रकृतिरपि परोपकाररता दृश्यते। नद्यः परार्थमेव जलं वहन्ति। वृक्षाः परहितायैव फलन्ति। गावः स्वदुग्धं परेभ्यः एव यच्छन्ति। परोपकाररूपं सद्गुणं सदैव उपार्जयेमुः। परोपकारभावनयैव अस्माकं, अस्माकं देशस्य च कल्याणं भवितुं शक्यते। परोपकारस्य महत्त्वं विशदरूपेण वर्णितम्
- A.
अभिलेखेषु
- B.
धर्मशास्त्रेषु
- C.
न्यायशास्त्रेषु
- D.
साङ्ख्यदर्शनेषु
Sign up free to check your answer
Sign up freeLoading lesson…

